भोजनसमये एकः आदिशति –“ब्राह्मणेभ्योः दधि दीयताम् । तक्रं कौण्डिन्याय” इति । कौण्डिन्योऽपि ब्राह्मण एव । तथापि कोण्डिन्यशब्दस्य पश्यगग्रहणे विशिष्टं प्रयोजनं भवति । एतादश्शस्थले सामान्यशास्त्रं विशिष्टशास्त्रेण बाधितं भवति । ब्राह्मणेभ्यो दधि दीयतां तत्रापि कौण्डिन्यनामकाय ब्राह्मणाय तक्रमेव दीयतामिति अस्य वाक्यस्य अर्थः । अयमेव उत्सर्गापवादन्यायो भवति । यथा – लोके हि सत्यपि संभवे बाधनं भवति । तद्यथा – दधि ब्राह्मणेभ्यो दीयतां तक्रं कौण्डिन्याय इति सत्यपि संभवे दधिदानस्य तक्रदानं निवर्तकं भवति । (पातञ्जलमहाभाष्यम् १-१-४७ वार्तिकम् ६-२-१ याज्ञवल्क्यस्मृतिमिताक्षरटीका ३-२५७

"https://sa.wikiquote.org/w/index.php?title=तक्रकौण्डिन्यायः&oldid=9989" इत्यस्माद् प्रतिप्राप्तम्