तत्रापरा ऋग्वेदो यजुर्वेदः...

तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदो अथर्ववेदः, शिक्षा कल्पो व्याकरणं
निरुक्तं छन्दो ज्योतिषम् इति । - मुण्डकोपनिषत् १-१-५

ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः, शिक्षा, कल्पः, व्याकरणं,
निरुक्तम्, छन्दः, ज्योतिषम् इत्येषा अपरा विद्या ॥

सम्प्रदायमनुसृत्य अस्य मन्त्रस्य अर्थोऽवगन्तव्यः । नो चेत्
अपार्थ एव भवति । शाङ्करभाष्यम् अनुसृत्य सम्यगर्थो ज्ञातव्यः ।
चत्वारो वेदाः, षड्ङ्गानि च भारतीयसंस्कृतौ परमपवित्रत्वेन प्रसिद्धानि ।
अपौरुषेयान् वेदान् तथा आर्षप्रासादिक ग्रंथरूपाणि शिक्षादीनि षडङ्गानि
च – अपरा विद्या इति अयं मन्त्रः धैर्येण उद्घोषयति । तत् कस्मिन्नर्थे ?
इति पश्याम ॥

ऋग्वेदो वा यजुर्वेदो वा केवलं शब्दराशिः खलु ? शिक्षादीनि षडप्यङ्गानि
शब्दराशिरेव । सर्वोऽपि केवलः शब्दराशिरयम् अनात्मविषयक एव इति
अपरा विद्या एव भवति । तस्मादेव च इदं सर्वम्, अविद्या एव । ‘वेदाः
त्रैगुण्यविषया एव’ इति गीताचार्योऽपि शब्दराशिभूतान् वेदान् ‘त्रिगुणात्मकाः’
इति वदति ॥