तत् सर्वं परे देवे...
तत् सर्वं परे देवे मनसि एकीभवति । - प्रश्नोपनिषत् ४-२
तत् सर्वमपि परे देवे मनसि एकीभवति ।
जागरितम्, स्वप्नः, सुषुप्तिरिति प्रत्यहम् अस्माकं तिस्रो अवस्थाः भवन्ति । एतस्यैव
अनुभवस्य वेदान्तेषु ‘अवस्थात्रय’म् इति नाम भवति । जागरिते शरीरेन्द्रियमनांसि
स्वीयानि स्वीयानि कर्माणि कुर्वन्ति । स्वप्ने तु इमानि शरीरेन्द्रियाणि वा शब्दस्पर्शादिविषया
वा न विद्यन्ते ॥
स्वप्ने केवलं मन एव विद्यते । मनसः एव सर्वं जायते, मनस्येव च सर्वं लीयते । गाढनिद्रायां
न कोऽपि व्यापारः सम्भवति । तत्र सर्वेऽपि व्यापाराः मनस्येव लीयन्ते । सूर्योदये सर्वाणि किरणानि
जायन्ते, सूर्यास्तमाने तत्रैव यथा लीयन्ते, तथैव स्वप्ने सर्वेऽपि पदार्थाः मनसो जायन्ते, सुषुप्तौ
मनस्येव लीयन्ते । तन्मन एव परो देवः । मन एव सर्वं भवति । अस्मिन्नेव मनसि चराचरात्मकः
प्रपञ्चः लीयते च । मन अधीनतयैव प्रपञ्चः अवभासते । अयमेव हि मनोदेवस्य महिमा, इदमेव
च मनसो वैभवम् ॥