तत् सृष्ट्वा । तदेवानुप्राविशत्...

तत् सृष्ट्वा । तदेवानुप्राविशत् ॥ - तैत्तिरीयोपनिषत् २-६-६

तद् ब्रह्म इमं प्रपञ्चं सृष्ट्वा अनन्तरं स्वयमेव इमं प्रपञ्चं प्राविशत् ।

परमात्मा हि सर्वज्ञः सर्वशक्तश्च । स परमात्मा स्वयमेव इदं जगत् सृष्टवान् ।
सर्वज्ञत्वात् परमात्मा अस्य जगतः निमित्तं कारणम्, सर्वशक्तत्वाच्च स एव उपादानकारणं च ।
सर्वथापि परमात्मा स्वयमेव आत्मानमेव प्रपञ्चरूपेण सृष्टवान्, इमान् देहादीन् च स एव सृष्टवानस्ति ॥

इमं देहं सृष्ट्वा स भगवान् स्वयमेव इमं देहं प्रविष्टवान् । सन्देशस्यास्य रहस्यं किं वा भवेत् ?
इति चिन्त्यम् । अस्मिन् देहे जीवरूपेण, कर्तृभोक्तृरूपेण प्रमातृरूपेण च अवभासमानः स एव
सृष्टिकर्ता भगवान् । संसारिजीवरूपेण अवभासमानः अयम् आत्मा परमार्थतः असंसारी परमात्मैव
नित्यशुद्धः आत्मैव देहाद्युपाधि-सम्बन्धेन संसारीव जीवात्मा इव च अवभासते । परमार्थतस्तु
जीवात्मा नाम परमात्मैव इत्यर्थः । ‘ब्रह्म देहं प्रविष्टम्’ इत्युक्ते एष एवार्थः । जीवस्य संसारित्वम्
अविद्याकल्पितम् इत्यर्थः ॥