तथा विद्वान् नामरूपात्...

नामरूपाभ्यां मुक्तिः

तथा विद्वान् नामरूपात् विमुक्तः परात् परं पुरुषमुपैति दिव्यम् । - मुण्डकोपनिषत् ३-२-८

तथैव ब्रह्मज्ञानी नामरूपबन्धनात् विमुक्तः सन् परादपि परतरं
पुरुषम् उपैति ॥

नामरूपे एव बन्धनम् । एते नामरूपे च अविद्याकल्पिते । नामरूपे
वस्तुस्वरूपासम्बद्धे उपाधिदोषादेव दृश्येते । आत्मविद्योदये सति
नामरूपे विलीयेते । इयमेव हि मुक्तिः ॥

नामरूपविलयस्य सुन्दरं दृष्टान्तमेकं ददाति अयं मन्त्रः । स एव
नदीसमुद्रदृष्टान्तः । भिन्नभिन्नेषु गिरिपर्वतेषु जाताः गङ्गायमुना
गोदावर्याद्याः नद्यः, समुद्रंगताः सत्यः आत्मनो भिन्नभिन्नानि
नामानि रूपाणि च विहाय समुद्रः इत्येव कथ्यन्ते खलु ? समुद्रं
प्राप्य, समुद्रे विलीय, एकतां गताः गङ्गायमुनाद्याः सरितः न
स्वतन्त्रतया भवेयुः । एवमेव आत्मज्ञानी आत्मज्ञानबलेन “अहं
निरुपाधिकं ब्रह्मैवास्मि” इति विजानाति । अविद्याकल्पिते
नामरूपे मिथ्याभूते पश्यति । अयं ब्रह्मात्मज्ञानी जीवन्नेव
ब्रह्मैव सम्पन्नः ॥