तदक्षरं वेदयते यस्तु...
‘अक्षर’ज्ञानात् सर्वज्ञत्वम्
तदक्षरं वेदयते यस्तु सौम्य, स सर्वज्ञः सर्वमेवाविवेश इति । - प्रश्नोपनिषत् ४-११
हे सौम्य, सौर्यायणिगार्ग्य, यस्तु नरः तदक्षरं वेदयते सः सर्वज्ञो
भूत्वा सर्वमपि स्वयमेव भवति ।
‘अक्षरं’ नाम नाशरहितं परब्रह्मतत्त्वम् । अक्षरमेव अस्माकं निजस्वरूपम् ।
ब्रह्मादिपिपीलिकापर्यन्तानां सकलप्राणिनां निजस्वरूपमेतदक्षरम् । अक्षरतत्त्वजिज्ञासोः
साधकस्य मनः परिशुद्धं परिपक्वं च भवेत् । विवेकः, वैराग्यं, शमादयः, मुमुक्षुत्वं
च – इत्येवंरूपैः चतुर्भिः साधनैः सम्पन्नेन भाव्यं तत्त्वजिज्ञासुना । एतादृशेन
मुमुक्षुणा साधकेनैव हि अक्षरस्वरूपम् अधिगम्यते ॥
मनोबुद्धिचित्ताहंकाराणां विज्ञानात्मनां च आधारभूतम् अक्षरमेव । अक्षरादेव
विश्वमिदं जातम्, अक्षरे एव स्थितं सत्, अक्षरे एव लीयते । अक्षरमेवाहमिति
यो जानाति सः सर्वोऽपि भवति । ज्ञानात् पूर्वमपि सर्वज्ञः सर्वश्च सन् अपि,
अविद्यया स्वयम् असर्वज्ञ इव आसीत् । अपि तु इदानीम् विद्योदयेन अविद्यायाः
निवृत्तत्वात् स्वयं सर्वज्ञः सर्वश्च भूत्वा अक्षरमेवाहस्मीति विजानाति ॥