तदन्तरस्य सर्वस्य...
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः । - ईशावास्योपनिषत् ५
तद् ब्रह्मैव अस्य विश्वस्य अन्तः बहिश्च पूर्णम् ।
आत्मानं विचारपरत्वेन विमर्शकत्वेन मन्यमानाः केचित् प्राज्ञाः एवं पृच्छन्ति 'देवः कुत्रास्ति' ? यथा
‘सूर्यः कुत्रास्ति’ ? आकाशे । जलं कुत्रास्ति ? भूमौ । नक्षत्राणि कुत्र सन्ति ? आकाशे । एवमेव देवः
कुत्रास्ति ? इति पृच्छन्ति ॥
आत्मानं बुद्धिमत्त्वेन मन्यमानाः पण्डिताः अस्य प्रश्नस्य उत्तरत्वेन 'देवः सर्वत्रापि विद्यते' इति प्रतिवदन्ति च ।
इदं प्रश्नप्रतिवचनद्वयमपि हास्यास्पदमेव भवति । अयं प्रश्नः इदं प्रतिवचनम् इति द्वयमपि अनुचितमेव । यतो
हि परमात्मा नाम नैव साकारः सविशेषः कश्चित् पदार्थविशेषः । येन, ‘सः कुत्र अस्ति?’ इति प्रश्नो वा, ‘सः
सर्वत्रापि अस्ति’ इति प्रतिवचनं वा साधु अभविष्यत् । तस्मिन्नेव परमात्मनि देशः कालश्च अवभासते । अन्तः
बहिः सर्वत्रापि भगवानेव । भगवान् नाम देशकालयोरपि कारणभूतः सन् प्रपञ्चत्वेन दृश्यते इत्यर्थः ॥