परीवाहो नाम उत्प्रवाहः । यदा तडागस्य जलमधिकप्रमाणेन अन्तर्भवति तदा किञ्चित् छिद्रं कृत्वा जलस्य बहिर्गमनमार्गः कश्चन करणीयः । अन्यथा जलाधिक्येन जलबन्ध एव भिन्नो भवेत् । एवमेव हृदये यदा दुःखम् अधिकप्रमाणेन भवति तदा केनापि मार्गेण दुःखस्य अभिव्यक्तिः करणीया । रोदनेन दुःखस्य न्यूनता भवति । यथा –पूरोत्पीडे तडागस्य परीवाहः प्रतिक्रिया – उत्तररामचरिते ३-२९

"https://sa.wikiquote.org/w/index.php?title=तदाकपरीवाहन्यायः&oldid=9991" इत्यस्माद् प्रतिप्राप्तम्