तदेतत् प्रेयः पुत्रात्...

तदेतत् प्रेयः पुत्रात्, प्रेयो वित्तात्, प्रेयोऽन्यस्मात् सर्वस्मात्
अन्तरतमं यत् अयमात्मा । - बृहदारण्यकोपनिषत् १-४-८

सोऽयमात्मा पुत्रात् प्रियः, वित्तात् प्रियः, अन्यस्मात् सर्वस्मादपि प्रियः, अयम्
आत्मा सर्वस्मादपि अन्तरतमः ॥

आत्मा नाम स्वयमेव । आप्नोति इति आत्मा । अयमेव आत्मा अस्माभिः ज्ञेयः,
अयमेव च प्राप्तव्यः । अस्य आत्मनः ज्ञानेनैव ब्रह्मानन्दप्राप्तिः, आत्मज्ञानानन्द एव
परमः पुरुषार्थः । तस्मात् आत्मैव ज्ञेयः ॥

कुतः एतत् ? यतः आत्मैव सर्वस्मादपि प्रियतमः । लोके हि पत्नी-पुत्र-गृहवाहनादीनि
अस्माकं प्रियत्वेन प्रसिद्धानि सन्ति खलु ? कुतः, इति ज्ञायते वा ? आत्मार्थत्वात् ।
आत्मा हि नाम स्वयम् । आत्मा नाम स्वरूपम् । पुत्रादपि आत्मा आत्मनः अत्यन्तं प्रियः ।
पत्न्याः अपि आत्मा आत्मनः अत्यन्तं प्रियः । पत्युः अपि आत्मा आत्मनः अत्यन्तं प्रियः
खलु ? अस्मिन् प्रपञ्चे सर्वेभ्यः प्रियवस्तुभ्योऽपि आत्मैव आत्मनः प्रियतमः खलु ?
तस्मात् अस्मिन् आत्मनि एकस्मिन् विज्ञाते सर्वमिदं विश्वमेव विज्ञातं भवति ॥