तदेव ब्रह्म त्वं विद्धि...
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते । - केनोपनिषत् १-५
तदेव ‘ब्रह्म’ इति त्वं विजानीहि, ‘इदम्’ इति उपास्यते चेत् न तद् परं ब्रह्म भवति ।
उपनिषत्सु ब्रह्म उपास्यत्वेन ज्ञेयत्वेन च उपदिश्यते । उपासनविषयं चेत् ‘उपास्यं’ भवति,
उपास्यं चेत् सोपाधिकं भवति । उपास्यं ब्रह्म सगुणं भवति । उपासकः, उपासनम्, उपास्यम्
च इति त्रिपुटीसहितमेतत् । उपासनेन उपास्यदेवतासायुज्यमेव फलं, न तु मोक्षः ॥
ज्ञेयं ब्रह्म तु सर्वथा अविषयभूतम् । ज्ञेयं ब्रह्म निरुपाधिकं निरवयवं निर्विशेषं परिपूर्णं च भवति ।
इदमेव च परब्रह्मणः निजस्वरूपम् । ब्रह्मणि ज्ञातृज्ञेयज्ञानरूपा त्रिपुटिः न विद्यते । परमार्थतस्तु
ब्रह्म ‘ज्ञेय’मपि न भवति । ज्ञानस्य विषयश्चेत् ‘ज्ञेयम्’ भवेत् । कर्मणां वा उपासनानां वा ज्ञानस्य
वा अविषयभूतं ब्रह्म् कथं वा ज्ञेयत्वेन उपदिश्येत ? ब्रह्म ‘उपास्यं न भवति’ इति वक्तुं ‘ज्ञेयम्’
इति उपनिषत्सु उपदिश्यते । एवमवगते हि सम्यग्दर्शनं भवति, अनेनैव सम्यग्दर्शनेन मोक्षप्राप्तिश्च ॥