तदैक्षत बहु स्यां...
तदैक्षत बहु स्यां प्रजायेय इति । - छान्दोग्योपनिषत् ६-२-३
तद् ब्रह्म ‘अहं बहु स्याम्’ इति, ‘अहं प्रजायेय’ इति च ऎक्षत् ॥
‘तत्’ इति सत्स्वरूपं ब्रह्म । तत् एक्षत, 'अचिन्तयत्' इत्युक्तत्वात् चिन्तनकर्तृ,
आलोचनकर्तृ, चिन्मात्रस्वरूपं ब्रह्मैव, न तु अचेतनं प्रधानम् । अचेतनस्य प्रधानस्य
चिन्तनसामर्थ्यं नास्ति ॥
भवतु, तद् ब्रह्म किमिति ऎक्षत ? उच्यते । अहमेव प्रपञ्चो भवानि, अहमेव प्रपञ्चरूपेणा
जायेय इति अचिन्तयत् । न तु यथा कुलालः मृदा घटघटिकादीन् सृजै इति चिन्तयति तथा ॥
कुलालः घटादीनां निमित्तं कारणम्, मृत्तिका तु उपादानं कारणम् । उभयं कारणं भिन्नभिन्नमेव ।
ब्रह्म तु एकमेव अस्य जगतः निमित्तं कारणम् उपादानं च । अस्यैव अभिन्ननिमित्तोपादानसत्कार्यवादः
इति वेदान्तेषु नाम । अभिन्ननिमित्तोपादान् कारणात् ब्रह्मणः जातं विश्वमिदं सर्वदा ब्रह्मस्वरूपमेव ।
कार्यकारणानन्यत्वन्यायेन ब्रह्माभिन्नमेवेदं जगत् इति विज्ञेयम् ।