तद्वा अस्य एतत् आप्तकामम्...

तद्वा अस्य एतत् आप्तकामम्, आत्मकामम् अकामं रूपं
शोकान्तरम् । - बृहदारण्यकोपनिषत् ४-३-२१

इदमेव अस्य आप्तकामम् आत्मकामम् अकामं रूपम् । इदं
सुषुप्तिस्थानं शोकरहितम् ॥

सुषुप्तौ आत्मा कामकर्मरहितः स्वस्थो भवति । जागरिते आत्मा
कामहतः कामदासः काममयः सन् दुःखसागरे निमग्नो भवति ।
कामाभावे जागरिते व्यवहाराभावः । काममयत्वमेव जीवस्य जीवत्वम् ॥

गाढनिद्रायां तु कामसम्बन्धाभावः । सुषुप्तिस्वरूपम् अयं मन्त्रः
सुन्दरतया सुलभतया वर्णयति । सुषुप्तिर्नाम आप्तकामम् आत्मकामम्
अकामं स्थानम् । आप्तसर्वकामः आत्मकामः कामरहितश्च तत्र भवति ।
सुषुप्तिर्हि शोकान्तरं, शोकवर्जितं स्थानम् । दुःखसम्बन्धरहितम्
आनन्दस्वरूपं तत् । अविद्यायां सत्यां ततः कामकर्माणि, सुखदुःखानि
शोकमोहादीनि च भवन्ति । सुषुप्तौ तु अविद्यादिदोषाः न भवन्ति ।
सहजानन्दस्वरूपमेव हि सुषुप्तिर्नाम । एष एव सुषुप्तेर्महिमा ॥