तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्...
जिज्ञासोः सद्गुरुरेव गतिः
तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं
ब्रह्मनिष्ठम् । - मुण्डकोपनिषत् १-२-१२
तद् परं ब्रह्म विज्ञातुं मुमुक्षुः जिज्ञासुः श्रोत्रियं ब्रह्मनिष्ठं
सद्गुरुमेव भक्त्या उपगच्छेत् ।
परब्रह्मणः तत्त्वं ज्ञातुम् इच्छुः साधकः “जिज्ञासुः” भवति ।
तत्त्वजिज्ञासायाः फलम् आत्मज्ञानमेव । ज्ञानफलमेव मोक्षः ।
सर्वथाऽपि तु कर्ममार्गात् विरक्तेन मुमुक्षुसाधकेन अवश्यमेव
कर्तव्यं साधनं नाम “ब्रह्मजिज्ञासा” ॥
ब्रह्मजिज्ञासां कर्तुमेव साधकः सद्गुरुम् उपसर्पेत् । जिज्ञासुः
स्वयमेव स्वतन्त्रतया ब्रह्मजिज्ञासां न कुर्यात्, “शास्त्रज्ञोऽपि
स्वातन्त्र्येण ब्रह्मज्ञानान्वेषणं नैव कुर्यात् इति मुमुक्षून्
बोधयन्ति भगवत्पादाचार्याः । अतः सद्गुरूपाश्रयणम् आवश्यकमेव ॥
भवतु, तादृशाः सद्गुरवः के ? कथं ते वर्तेरन् ? इति चेत्,
“श्रोत्रियं ब्रह्मनिष्ठम्” इति श्रुतिः उपदिशति । वेदान्तशास्त्रतात्पर्याभिज्ञो
हि श्रोत्रियः, ब्रह्मैवाहमस्मीति अनुभवेन विज्ञाय ब्रह्मप्रतिष्ठश्च
ब्रह्मनिष्ठः । ईदृशः सद्गुरुरेव जिज्ञासोः गतिः ॥