तपः श्रद्धे ये ह्यपवसन्त्यरण्ये...

तपः श्रद्धे ये ह्यपवसन्त्यरण्ये शान्ता विद्वांसो भैक्ष्यचर्यां चरन्तः । सूर्यद्वारेण ते विरजाः
प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥ - मुण्डकोपनिषत् १-२-११

ये हि संन्यासिनः तपः उपासनं च कुर्वन्तः अरण्ये वसन्ति, शान्ताः सन्तः भिक्षान्नमात्रभोजनाः जीवन्ति ,
ते पापमुक्ताः सन्तः सूर्यमार्गद्वारेण हिरण्यगर्भलोकं प्राप्नुवन्ति ।

वानप्रस्थानां संन्यासिनां च अयं मन्त्रः मार्गदर्शनं करोति । वानप्रस्थाः इन्द्रियनिग्रहतत्पराः सन्तः हिरण्यगर्भब्रह्मणः
उपासनं कुर्युः । संन्यासिनश्चेत् ते केवलं प्रणवोपासनतत्पराः भवेयुः । उभौ अपि एतौ अरण्यवासिनौ एव ।
अरण्यमित्युक्ते न ‘वनम्’ इत्येव, किं तु जनसंमर्दरहितं शान्तं मङ्गलस्थानमित्यर्थः ॥

वानप्रस्थसंन्यासिनौ उभावपि भिक्षान्नमात्रेण जीवनं निर्वहन्तौ ओङ्कारोपासननिष्ठौ चेत् उत्तरायणेन मार्गेण सुषुम्नानाडीद्वारेण
ब्रह्मलोकं गत्वा तत्र ब्रह्मणा सहैव वसतः । तत्रलोके आत्मज्ञानोदयस्यापि अवकाशो भवति । ब्रह्मज्ञाने जाते तु मुक्तौ भवतः ॥