तमात्मस्थं येऽनुपश्यन्ति धीराः...


तेषामेव नित्यं सुखम्

तमात्मस्थं येऽनुपश्यन्ति धीराः तेषां सुखं शाश्वतं नेतरेषाम् । - काठकोपनिषत् २-२-१२

स्वात्मस्थमेव तम् आत्मानं ये धीराः अनुपश्यन्ति तेषामेव शाश्वतं
सुखम्, न तु इतरेषाम् ॥

सर्वेणापि पुरुषेण नियततया अपेक्ष्यं फलं नाम सुखम् । अपि तु नैकेनापि
पुरुषेण एकान्ततया प्राप्यमाणं फलं नाम सुखमेव । नैकेनापि नरेण
अपेक्ष्यमाणम् अनिष्टफलं नाम दुःखमेव, सर्वेणापि अनुभूयमानं फलं
नाम दुःखमेव । सर्वेषामस्माकं नित्यजीवने प्रतिक्षणमपि दृश्यमानो
अनुभवोऽयम् ॥

अस्तु तर्हि, सुखलाभाय किं कर्तव्यम् ? इति चेत्, अत्रास्ति मृत्युदेवस्य
दिव्यमङ्गलसन्देशः । स च ‘आत्मानं विज्ञाय शाश्वतः आनन्दः’ इति
एष एव । आत्मा नाम कः ? देहेन्द्रियादिभ्यः अन्तरतमो ह्यात्मा ।
नाशरहितः परिपूर्णस्वरूपः आत्मैव नः स्वरूपम् ।

अस्य आत्मनः ज्ञानं कथम् ? शास्त्राचार्योपदेशम् अनुसृत्य, वेदान्तसन्देशान्
अनुसृत्य आत्मनि विज्ञाते स्वयमेव प्रत्यगात्मा इति विज्ञायते । तदा
दुःखनिवृत्तौ परमानन्दप्राप्तिर्भवति ॥