तमु ह परः प्रत्युवाच...
तमु ह परः प्रत्युवाच अह हारे त्वा शूद्र तवैव सह गोभिरस्तु
इति । - छान्दोग्योपनिषत् ४-२-३
तं जानश्रुतिनामानं राजानं प्रति सः ज्ञानिपुङ्गवः रैक्वः एवम् उवाच ।
अह रे शूद्र, गोभिः युक्ता सर्वापि सम्पत् तवैव भवतु, मम तु न
किञ्चिदप्यस्तु ॥
दारिद्र्ययुक्तेन कण्डूयमानेन शकटस्य अधस्तात् उपविष्टेन, अपि तु
ब्रह्मज्ञानिपुङ्गवेन रैक्वनाम्ना धीरेण उक्तमेतद्वचनम् । कं प्रति ?
जानश्रुतिनामानं राजानं प्रति । कः सन्दर्भः ? चक्रवर्ती जानश्रुतिः
यदा स्वसम्पत्प्रदानेन एनं ब्रह्मज्ञानिनं सन्तोषयितुं प्रायतत तदा ।
रे शूद्र, तवैव गोभिरस्तु इति ॥
ब्रह्मज्ञानिनः लौकिक्या दृष्ट्या यद्यपि दरिद्राः, रोगिष्ठाः, कुरूपिणः
भिक्षुकाश्च भवेयुः तथापि एते ब्रह्मनिष्ठाः आप्तकामाः, अकामाश्च ।
‘न कर्मणा न प्रजया धनेन’ इतिमन्त्रस्य मूलपुरुषा हीमे !
लौकिकसम्पत्त्या न मेयाः । न च धनेन क्रय्या एते । केवलं
गुरुभक्तिसमधिगम्याः गुरुभक्तितोषयितव्या एते ब्रह्मज्ञानिनः ॥