तमेकनेमिं त्रिवृतं षोडशान्तं...

तमेकनेमिं त्रिवृतं षोडशान्तं
शतार्धारं विंशतिप्रत्यराभिः ।
अष्टकैः षडभिर्विश्वरूपैकपाशं
त्रिमार्गभेदं द्विनिमित्तैकमोहम् ॥ - श्वेताश्वतरोपनिषत् १-४

एकनेमिं त्रिवृतं षोडशान्तं, पञ्चाशदरं विंशतिप्रत्यरं षड्भिः अष्टकैः युक्तं विश्वरूपैकपाशं
त्रिमार्गं द्वयोर्निमित्तम् एकमोहम् परमात्मानम् चिन्तयेत् ॥

समस्तस्याप्यस्य जगतः ब्रह्मैकमेव कारणम् । इदं जगत् सत्त्वरजस्तमोगुणैः अन्वितम् । पञ्चभूतानि,
पञ्चज्ञानेन्द्रियाणि, पञ्चकर्मेन्द्रियाणि, मनश्च इति षोडशवस्तुभिः संयुक्तम् । पञ्च विपर्ययाः , अष्टाविंशतिः
अशक्तयः, नव तुष्टयः अष्टौ सिद्धयः- एवं पञ्चाशतगुणैः सम्पूर्णम् । दश इन्द्रियाणि, दश विषयाश्च । प्रकृतिः,
धातुः, ऎश्वर्यं, भावः, देवः, षट् गुणाष्टकम्, अस्मिन् जगति सन्ति । धर्मः, अधर्मः अज्ञानमिति त्रयो मार्गाः
सन्ति । पुण्यपापकर्मणोः निमित्तं चेदं जगत् । इदृशस्य जगतः परं ब्रह्मैव कारणम् ॥