तरक्ष इति तरं गतिं मार्गं वा क्षिणोति इति अर्थेन क्रूरमृगः । महाकाल्याः परिवारदेवतासु डाकिनीदेवताः सन्ति । डाकिनी व्याघ्रवाहनम् अधिरुह्य तिष्ठतीति अतिभयङ्करी भवतीति तन्त्रशास्त्रे प्रसिद्धिः । एवं क्रूरकर्माणि यः करोति तम् उदिदश्य तरक्षडाकिनीन्यायः प्रवर्तते ।

"https://sa.wikiquote.org/w/index.php?title=तरक्षडाकिनीन्यायः&oldid=10014" इत्यस्माद् प्रतिप्राप्तम्