तरति शोकं, तरति पाप्मानम्...
तरति शोकं, तरति पाप्मानम्, गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति । - मुण्डकोपनिषत् ३-२-९
ब्रह्मज्ञानी शोकसागरं तरति, पापसागरं तरति, हृदयग्रन्थिभ्यः मुक्तो भवति, अमृतश्च भवति ।
फलयुगोऽयम्, प्रयोजनयुगोऽयम् । सर्वत्रापि साधनमार्गे प्रथमः प्रश्नो नाम ‘किं प्रयोजनम्’ इत्येव । एवमेव
आत्मज्ञानमार्गेऽपि 'आत्मनि विज्ञाते किं फलं भवति ?' इति साधकाः पृच्छन्ति । बाढम्, आत्मज्ञानेन इमानि
चत्वारि फलानि भवन्ति ॥
१. आत्मज्ञानेन शोकसागरं तरति । ज्ञानेन सर्वे शोकाः नश्यन्ति ।
२. पापसागरं तरति । पुण्यपापानि सागरवदेव दुस्तराणि वर्तन्ते । पुनर्जन्मनः हेतुभूतानां पुण्यपापकर्मणां विनाशो भवति ॥
३. गुहाग्रन्थिविमोक्षः । गुहाग्रन्थयो नाम अविद्याकामवासनाः । आत्मविद्यया हि अविद्याकामवासनाग्रन्थीनां विनाशः ॥
४. अमृतो भवति । आत्मविद्योदये सति सद्य एव अमृतो भवति, जीवन्मुक्तो भवति । न आत्मवित् पुनर्जायते ॥