तस्माद्वा एतस्मात् विज्ञानमयात् ...

अयमेव, आनन्दमयः आत्मा

तस्माद्वा एतस्मात् विज्ञानमयात् । अन्योन्तर आत्मा आनन्दमयः ।
तेनैष पूर्णः ॥ - तैत्तिरीयोपनिषत् २-५-३

तस्माद् एतस्माद् विज्ञानमयादात्मनः अन्यः अन्तरतरः आत्मा आनन्दमयः ।
तेनैव एषः पूर्णः ॥

अन्नमय प्राणमय मनोमय विज्ञानमय आनन्दमयाख्यान् पञ्च आत्मनः अनुवदति
एषा उपनिषत् । “पञ्चकोशाः” इति व्यपदिश्यन्ते एते । पूर्वस्मात् पूर्वस्मात् आत्मनः
उत्तरोत्तरः आत्मा सूक्ष्मः व्यापकः अन्तरतरश्च भवति ॥

प्रकृते तु, विज्ञानमयः आत्मा बुद्धिमयः । विज्ञानमयः आत्मा मनोमयस्याप्यात्मनः
प्रत्यगात्मभूतः । अस्माद् विज्ञानमयादप्यात्मनः सूक्ष्मतरो हि आनन्दमयात्मा ।
सकलकर्मणां फलं नाम आनन्द एव । आनन्दप्रचुरोऽयमानन्दमयः आत्मा पूर्वेषां
चतुर्णामपि कोशानामात्मभूतः । सत्यमेवैतत् । अपि तु अयमानन्दमयोऽप्यात्मा
अनात्मैव । यतो हि आनन्दमयः आत्मा पञ्चकोशेषु अन्यतम एव । परं ब्रह्मैव
तु प्रत्यगात्मभूतम् । पञ्चकोशविलक्षणः प्रत्यगात्मा एव परिशुद्धः परिपूर्णश्च आत्मा भवति ॥