तस्मिन् ह तस्थुर्भुवनानि विश्वा ॥

तस्मिन् ह तस्थुर्भुवनानि विश्वा ॥ (यजुर्वेदः ३१-१९) सम्पाद्यताम्

समग्रं ब्रह्माण्डं तस्मिन् विद्यते ।

तत् किम् ? सा एव परमात्मरूपा शक्तिः । इयं शक्तिः सः सा तत् इति केनापि शब्देन निर्देष्टुं शक्या ! अस्याः शक्तेः शरीराकारादयः न विद्यन्ते इत्यतः लिङ्गव्यवस्थातीता वर्तते । इयं शक्तिः सर्वव्यापिनी विद्यते । अस्याः व्याप्तेः ऊहने अपि मानवस्य मस्तिष्कम् असमर्थं भवति । भूमिः, सौरमण्डलं, क्षीरपथः, नीहारिकाः, नक्षत्रमण्डलानि - एतैः युक्तम् इदं ब्रह्माण्डम् अगाधम् अनन्तञ्च वर्तते । वेगशाली प्रकाशः एकस्मिन् वर्षे यावद्दूरं क्रमते तद्दूरं 'ज्योतिर्वर्षम्' इति निर्दिश्यते । लक्षाधिकज्योतिर्वर्षाणाम् इव विस्तारयुतस्य ब्रह्माण्डस्य अन्त्यं केनापि न ऊह्यते !! इदं ब्रह्माण्डम् अत्यन्तं हितकरं रमणीयञ्च किञ्चन रचनाविशेषः । एतादृशं हितकरं रमणीयं स्वस्य गर्भे धरति इत्यतः एव तां शक्तिं वेदाः 'हिरण्यगर्भ' इति निर्दिशन्ति । एतादृशी शक्तिः देवालय-क्रैस्तालय-यवनालयेषु बद्धवन्तः स्मः इति भ्रमया वाणिज्यवस्तुरूपं कृतवताम् अस्माकं मौढ्यं किमिति वदेम ?!