तस्यै तपो दमः कर्मेति प्रतिष्ठा...

तस्यै तपो दमः कर्मेति प्रतिष्ठा । वेदाः सर्वाङ्गानि सत्यम् आयतनम् ॥ - केनोपनिषत् ४-८

तां परब्रह्मविद्यां प्राप्तुं तपः, दमः, कर्माणि, वेदाध्ययनं, षडङ्गानि, सत्यवचनं च साधनानि भवन्ति ॥

ब्रह्मविद्ययैव कृतकृत्यता, ब्रह्मविद्ययैव मोक्षप्राप्तिः, ब्रह्मविद्या सर्वविद्याप्रतिष्ठा, ब्रह्मविद्या सर्वैः मानवैः सम्पाद्या
एव इत्यादिरूपेण हि उपनिषत्सु ब्रह्मविद्या संस्तूयते ॥

तपसा खलु एषा ब्रह्मविद्या सुसम्पाद्या भवति । तपो नाम देवद्विजगुरुपूजनम्; शौचम्, आर्जवं च तपः । दमो नाम
बाह्यविषयेभ्यः इन्द्रियाणाम् उपशमः । भगवदर्पणबुद्ध्या चित्तशुद्ध्यर्थं क्रियमाणमेव कर्म । अधिकारिभिः द्विजैः
क्रियमाणं वेदाध्ययनमपि आत्मज्ञानप्राप्त्यै साधनं भवति । शिक्षा, व्याकरणं, छन्दः, निरुक्तं, ज्योतिषं, कल्पश्च
इति षडङ्गानामपि अध्ययनं कर्तव्यमेव । सर्वैरपि मुमुक्षुभिः साधकैः आत्मज्ञानार्थम् अनुष्ठेयं सुलभतमं साधनं नाम
सत्यवचनम् । उपरि उक्तानि सर्वाणि साधनानि ब्रह्मविद्याप्राप्त्यर्थानि भवन्ति ॥