तस्योपनिषत् ‘सत्यस्य सत्यम्’...

तस्योपनिषत् ‘सत्यस्य सत्यम्’ इति । प्राणा वै सत्यं तेषामेष
सत्यम् ॥ - बृहदारण्यकोपनिषत् २-१-२०

‘सत्यस्य सत्यम्’ इति तस्य उपनिषत् । प्राणा एव सत्यम्, सत्यानां
प्राणानामपि अयमात्मा सत्यम् ॥

उपनिषत्सु आत्मा अनेकैः नामभिः कथितोऽस्ति । आत्मनः ईशः, साक्षी,
सत्यम्, अक्षरम्, पुरुषः, अन्तर्यामी, ब्रह्म, विज्ञानम्, आनन्दः – इत्यादीनि
अनेकानि नामानि उपनिषत्सु उपदिष्टानि ॥

अस्मिन् प्रकृते मन्त्रे तु आत्मनः ‘सत्यस्य सत्यम्’ इति नाम उपदिष्टं दृश्यते ।
अयमात्मा ‘सत्यस्य सत्यम्’ । प्राणा एव हि सत्यम् । अत्र प्राणा इति इन्द्रियाणि
मनश्च । इन्द्रियैः दृष्टं वस्तु सत्यं खलु ? तस्मात् इन्द्रियमनोबुद्धयः सत्यशब्देन
उच्यन्ते । एतेषाम् आस्पदभूतो हि अयमात्मा । इन्द्रियाणां चैतन्याधायकः आत्मा ।
एष आत्मैव नूनं ‘सत्यम्’ । आत्मन एव हि सर्वाणि इन्द्रियाणि स्वस्वव्यापारं कुर्वन्ति ।
आत्मचैतन्यनिमित्त एव हि सर्वकरणव्यापारः ? आत्मैव खलु इन्द्रियमनोबुद्धीनाम् आधारः?
तस्मात् आत्मा ‘सत्यस्य सत्यम्’ इति कथ्यतेऽत्र । इदं हि आत्मनः रहस्यं नाम ॥