तस्य त्रय आवसथाः । त्रयः स्वप्नाः । - ऎतरेयोपनिषत् १-३-१२

आत्मनः त्रीणि वासस्थानानि, त्रयः स्वप्नाः ।

आत्मनः त्रयः वासालयाः । परिपूर्णस्य आत्मनः परमार्थतः नैकमपि वासगृहम् विद्यते ।
आकाशस्य वासस्थानमिति वर्तते किम् ? देशकालवस्तुभिः परिच्छिन्नानां पदार्थानां हि
वासस्थानं सम्भवति । तर्हि आत्मनः त्रीणि वासस्थानानि इत्युक्ते कोऽर्थः । अत्र आत्मा
नाम देहाभिमानी जीवः । अस्य जीवस्य जाग्रदाद्याः तिस्रः अवस्थाः वासस्थानानि इव भवन्ति ॥

आत्मनः तानि त्रीणि वासस्थानानि कानि ? इति चेत्, जाग्रदवस्थायाम् आत्मनः दक्षिणं
चक्षुरेव वासस्थानम्, स्वप्ने मनः वासस्थानम् , सुषुप्तौ तु हृदयम् । सर्वोऽपि जागरितव्यवहारः
इन्द्रियाधीन एव, इन्द्रियाभावे व्यवहाराभावात् । स्वप्ने सर्वे व्यवहाराः मनोऽधीनाः । स्वप्ने
जागरितशरीरं वा इन्द्रियाणि वा न विद्यन्ते । तथापि मनस्येव सर्वे व्यवहाराः भवन्ति । निद्रावस्थायां
तु हृदयाकाशे आत्मनः सुप्तत्वात् तदेव हृदयं वासस्थानम् । परमार्थदृष्ट्या एताः तिस्रोऽप्यवस्थाः
स्वप्न एव, अविद्याकृतत्वात् ॥

"https://sa.wikiquote.org/w/index.php?title=तस्य_त्रय_आवसथाः...&oldid=16269" इत्यस्माद् प्रतिप्राप्तम्