तस्य ह न देवाश्च नाभूत्यै...

तस्य ह न देवाश्च नाभूत्यै ईशते । आत्मा ह्येषां स भवति ॥ - बृहदारण्यकोपनिषत् १-४-१०

देवा अपि तस्य ज्ञानिनः विघ्नं कर्तुं न ईशते । यतः एषां देवानां सः
ज्ञानी आत्मा भवति ॥

लब्धब्रह्मात्मज्ञानश्चेत् सः मुच्येत वा न वा ? इति संशयो नास्ति । ज्ञानी
चेत् स सर्वात्मा भवत्येव । मुक्त एव । ज्ञानस्य मुक्तेश्च अविनाभावसम्बन्धः ।
एकेन ज्ञानिना भाव्यम्, अपि तु तेन ज्ञानेन सः सर्वात्मा सन् मुच्येत वा न
वा इति संशयो न युक्तः ॥

भवतु, अत्र कश्चित् संशयो जायेत । तद्यथा, मानवाः दुर्बलाः, देवास्तु बलिष्ठाः ।
देवाः अणिमादिसिद्धिमन्तः, निग्रहानुग्रहसमर्थाश्च । तादृशा देवाः अस्य ब्रह्मज्ञानिनः
मोक्षं प्राप्तुं विघ्नं कुर्युः खलु ? इति चेत् । न । नैष संशयो न्याय्यः । यतः
ब्रह्मज्ञानी देवतानामपि आत्मभूतः, तस्मात् देवा अपि अस्य विघ्नं नैव कुर्युः ।
यतो हि सर्वात्मभूतस्य आत्मज्ञानिनः शत्रवो नैव भवन्ति । न हि स्वयमेव
स्वस्य विघ्नं कुर्यात् ।