तिलेषु तैलं दधनीव...
तपसा आत्मदर्शनम्
तिलेषु तैलं दधनीव सर्पिः
आपः स्रोतस्सु अरणीषु चाग्निः ।
एवमात्मा आत्मनि गृह्यतेऽसौ
सत्येनैनं तपसा योऽनुपश्यति ॥ - श्वेताश्वतरोपनिषत् १-१५
तिलेषु तैलमिव, दघ्नि सर्पिरिव, स्रोतस्सु आप इव, अरणीषु
अग्निरिव, आत्मनि असौ आत्मा सत्येन तपसा च गृह्यते ।
स्वस्मिन्नेव विद्यमानमत्मानं द्र्ष्टुं साधकेन क्रियमाणं साधनं
नाम सत्यवचनं तपश्च । सत्यं नाम सर्वथा अनृतवर्जनम् ।
तपो नाम इन्द्रियनिग्रहः आत्मचिन्तनं च । नैजस्वरूपानुचिन्तनमेव
अत्र तपः । एताभ्यां साधनाभ्याम् आत्मनो दर्शनं भवति ॥
एतत्प्रतिपादनाय दृष्टान्तचतुष्टयम् दीयते । तैलम्, सर्पिः,
जलम्, अग्निश्च दृष्टान्ताः । तिलेषु पिंडितेषु तैलम्, दघ्नि
मथिते सर्पिः, भूम्यां दीर्घं खनितायां जलम्, काष्ठे घर्षिते
अग्निः यथा आविर्भवन्ति, तथैव आत्मस्वरूपमननरूपेण
तपसा आत्मनि चिन्तिते सति आत्मदर्शनं भवति ॥