तीर्थं नाम पवित्रस्थानम् । नदीतीरे जलाशयतीरे वा प्रायः तादृशं भवति । बहवो जनाः महता कष्टेन तादृशतीर्थेषु स्नानं कर्तुम् आगच्छन्ति । परन्तु तत्रस्थाः काकाः प्रतिदिनं तत्र निमज्जनं कुर्वन्ति एव । तैः कतिवारं स्नानं क्रियते इति तस्य गणना एव नास्ति । ते काका अपि स्नानेन पुण्यं भवतीति न जानन्ति । एवम् अज्ञानेन अपि पुण्यप्राप्तिः भवति चेदपि तद् अज्ञानतः हीयते इति भावः ।

"https://sa.wikiquote.org/w/index.php?title=तीर्थकाकन्यायः&oldid=10544" इत्यस्माद् प्रतिप्राप्तम्