तुल्यबलप्रेक्षणन्यायः

यदि द्वौ तुल्यबलिनौ भवतः तर्हि द्वावपि परस्परसाहाय्येन एकं कार्यं साधयितुं शक्नुतः पृथक् पृथक् न । ‘अन्तादिवच्च’ (६-१-८५) इति पाणिनीयसूत्रभाष्ये न्यायः अयं स्पष्टीकृतः ।