तृणजलौकानामकः कश्चन कीटविशेषः तृणम् आधारीकृत्य चलति एकं तृणम् आलमब्य अग्रे चलन् सः यावत्पर्यन्तम् अपरं तश्णं न लभ्यते तावत्पर्यन्तं पूर्वं तृणं न त्यजति । एवं बुद्धिमानपि योग्यम् आधारं यावत् न प्राप्नोति तावत् पूर्वम् आधारं न परित्यजेत् इति अयं न्यायः बोधयति । वेदान्तशास्रानुसारं जीवः उत्तरदेहं प्राप्य पूर्वदेहं त्यजतीत्यपि अर्थो भवति ।

"https://sa.wikiquote.org/w/index.php?title=तृणजलौकान्यायः&oldid=10040" इत्यस्माद् प्रतिप्राप्तम्