सुभाषितम्

तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
भवन्ति सम्पदं दैवीं अभिजातोऽसि भारत ॥

भगवद्गीता १६-३

tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā ।
bhavanti sampadaṃ daivīṃ abhijāto'si bhārata ॥

पदच्छेदः

तेजः, क्षमा, धृतिः, शौचम्, अद्रोहः, न, अतिमानिता, भवन्ति, सम्पदम्, दैवीम्, अभिजातः, असि, भारत ॥


तात्पर्यम्

भारत ! देवयोग्यां सम्पदम् अभिलक्ष्य जातस्य पुरुषस्य अभीरुत्वम्, अन्तःकरणनैर्मल्यम् आत्मज्ञानोपाये तत्परत्वम्, दानम्, बाह्येन्द्रियनिग्रहः, यागः, वेदाध्ययनम्, तपः, ऋजुत्वम्,पीडावर्जनम्, यथार्थकथनम्, कोपाभावः, भगवते समर्पणम्, उपशमः, अपिशुनत्वम्, प्राणिषु दया, तृष्णाविरहः, अक्रौर्यम्, लज्जा, अचाञ्चल्यम्, प्रागल्भ्यम्, सहनम्, धृतिः, शुद्धिः, अपकारबुद्धेः अभावः, आत्मनि पूज्यत्वबुद्धेः च अभावः इति एते गुणाः भवन्ति ।


आङ्ग्लार्थः

Valour, forgiveness, fortitude, purity, freedom from hate and vanity; these are his who possesses the Godly Qualities, O Descendant of Bharata !

"https://sa.wikiquote.org/w/index.php?title=तेजः_क्षमा_धृतिः...&oldid=17774" इत्यस्माद् प्रतिप्राप्तम्