ते तमर्चयन्तः, त्वं हि नः...

ब्रह्मविद्यागुरुरेव पिता

ते तमर्चयन्तः, त्वं हि नः पिता योऽस्माकम् अविद्यायाः परं पारं
तारयसीति । - प्रश्नोपनिषत् ६-८

शिष्याः तं पिप्पलादमहर्षिम् अर्चयन्तः “त्वमेव नः पिताऽसि, यतो हि अस्माकं
ब्रह्मविद्याम् उपदिश्य, अस्मान् अविद्यासागरात् परं तारं तारयसि” इति
स्तुत्वा नमस्कारं कृतवन्तः ॥

वेदोपनिषत्सु गुरुशिष्यसम्बन्धः सुन्दरतया निरूपितोऽस्ति । गुरौ शिष्याणां
भक्तिं शिष्येषु गुरुवात्सल्यं च वयमत्र पश्यामः ॥

प्रकृते मन्त्रे, सुकेशाभारद्वाजादयः षट् शिष्याः भक्त्या पिप्पलादमहर्षिम्
उपसन्नाः सन्तः सद्गुरं नमस्कृत्य “परब्रह्मविद्यां कृपया उपदिशतु भवान्” इति
प्रार्थितवन्तः । तथैव आत्मज्ञानोपदेशेन आत्मानं कृतार्थान् कृतवन्तं सद्गुरुं ते
शिष्याः कृतज्ञता भक्त्या नमस्कृतवन्तः । एवं कृतार्थाः सन्तः शिष्याः स्वगुरुं
“त्वमेव नः पिता, माता, सर्वमपि त्वमेव; अस्मान् अविद्यासागरात् तारयित्वा
कृतार्थान् कृतवानसि, अतः तुभ्यमस्माकं कृतज्ञताभक्तिपूर्वकाः अनन्ताः प्रणामाः”
इति वन्दन्ते । अयमेव खलु भारतीयसंस्कृतौ सुन्दरः गुरुशिष्यसम्बन्धः ?