ते स्याम देव वरुण ॥
ते स्याम देव वरुण ॥ (ऋग्वेदः ७-६६-९)
सम्पाद्यताम्हे वरणीय ! वयं त्वदीयाः स्याम ।
- अद्वितीयः सः भगवान् स्वीकरणयोग्यः इत्यतः 'वरुणः' इति निर्दिश्यते । वयं भगवतः पक्षीयः स्याम । तदा तस्य भगवतः आनन्दे अस्माकमपि भागः प्राप्यते । भगवतः पक्षस्य प्रवेशनाय तस्य नियमाः अवगन्तव्याः, आचरणे पालनीयाश्च । भगवान् करुणामयः, दयामयश्च । अस्माकं जीवने अहिंसा, मैत्री, प्रीतिः इत्यादीन् गुणान् यदि सम्पादयेम तर्हि तस्य भगवतः पक्षं प्रवेष्टुम् अर्हता प्राप्यते । भगवान् सर्वज्ञः । वयं ज्ञानम् इच्छन्तः, ज्ञानवर्धनाय प्रयतमानाः सन्तः, ज्ञानप्रसारकार्ये उद्युक्ताः चेत् तस्य पक्षे अस्माकमपि किञ्चन स्थानं प्राप्यते । अत्र ज्ञानं नाम भगवतः सृष्टेः विनाशम् अकुर्वन्तः सर्वेषां जीविनां हिताय ज्ञातव्याः अंशाः आचरणानि च । परमात्मा विश्वब्रह्माण्डस्य नायकः । अस्मभ्यं दत्तस्य अस्य विश्वस्य - पिण्डाण्डस्य - एतस्य शरीरस्य वयं नायकाः भवेम तर्हि पक्षप्रवेशनाय अनुमतिः प्राप्यते । इन्द्रियाणां वशाः चेत्, भोगानां दासाः चेत् पक्षे प्रवेशः न भवति । साधनेन भगवतः पक्षीयाः भवेम ।