त्रयं वा इदं नाम रूपं कर्म...

त्रयं वा इदं नाम रूपं कर्म । - बृहदारण्यकोपनिषत् १-६-१

इदं जगन्नाम, नाम रूपं कर्म च ।

अयं व्याकृतप्रपञ्चः अत्यन्तं विशालः महान् च । अस्य विस्तारः अद्भुतः । इमं प्रपञ्चं शब्दैः
कृत्स्नतया वर्णयितुं न कोऽपि समर्थः, चेतनप्राणिभिः अचेतनवस्तुभिश्च सम्पूर्णोऽयं प्रपञ्चः ।
साङ्ख्यादिदर्शनानि अस्य प्रपञ्चस्य मूलम् अन्वेष्टुं प्रवृत्तानि । पञ्चभूतानि, नक्षत्रमण्डलानि, देवाः,
असुराः, मनुष्याः, पशुपक्षिणः, क्रिमिकीटादयः – इत्यादिरूपेण विस्तृतोऽयं विशालः प्रपञ्चः ॥

इमं प्रपञ्चं त्रेधा विभजते वेदान्तः । अयं विभागस्तु नाम, रूपं, कर्म च इति । नामरूपक्रियाः विहाय
प्रपञ्चो नाम नास्त्येव । सर्वस्यापि वस्तुनः एकं नाम, एकं रूपं विद्यते एव । चेतनं वस्तु चेत् तस्य
एका क्रियाऽपि विद्यते । मनुष्याणां पशुपक्षिक्रिमिकीटानां च समानमेव जातकमेतत् । एतावदेव अस्य
विशालप्रपञ्चस्य सारम् । अस्य आश्रयभूतं ब्रह्मतत्त्वम् । परं ब्रह्म तु नामरूपक्रियाऽतीतम् ॥