१. यदा किमपि वस्त्रम् अग्नौ दग्धं भवति तदाऽपि तस्योपरि चिह्नानि न नश्यन्ति तथैव पदार्थे नष्टे अपि तस्य विषय ममकारो न नश्यति ।

२. अग्नौ दग्धस्यापि पटस्य स्वरुपाकृतिः किञ्चित्कालं यावत् तथैव तिष्ठति इति अनेन बोध्यते ।

यथा –विज्ञप्तिमात्रदेहास्ते न तेषां जन्मकर्मणी (योगवाशिष्टे १४२.२४)

जन्मग्रहणं दग्धपटन्यायेन देहस्थितिप्रदर्शनार्थम् । (यो. वा. १४२.२४) सा. ५९३

"https://sa.wikiquote.org/w/index.php?title=दग्धपटन्यायः&oldid=10541" इत्यस्माद् प्रतिप्राप्तम्