कार्पासवाणिज्यं कुर्वदिभः चतुर्भिः वणिग्भिः एकः मार्जालः पालितः । तस्य मार्जालस्य पादयोः एकां किङिकणीं बद्धवन्तः । तदा तस्य मार्जालस्य एकपादस्य उपरि व्रणः जातः । तन्निवारणाय तैः तैलपट्टिका बद्धा तस्य पादे । एकदा मार्जालः चलति स्म तदा तस्य पादस्योपरि अग्निकणः पतितः तैलपट्टिका च ज्वलिता । तेन भीतः सः मार्जालः यदा पलायितुम् आरब्धवान् तदा तस्य पादे स्थिता ज्वलन्ती तैलपट्टिका सर्वमपि कार्पासं भस्मसात् कृतवती । चतुर्षु वणिक्षु यस्य भागे मार्जालस्य पादः आसीत् तेन नष्टं बोढव्यं त्रिभ्यश्च धनं दातव्यमिति अन्ये त्रयः न्यायलयं गतवन्तः । तदा सर्वं श्रुत्वा न्यायाधीशाः उक्तवान् –“यस्य पादे ज्वलन्ती तैलपट्टिका आसीत् तेन पादेन सः मार्जालः चलितृम् अशक्त आसीत् । अवशिष्टैः त्रिभिः पादैरेव सः मार्जालः धावित्वा कार्पासनाशं कृतवान् । अत एव त्रिभिरेव हानिः स्वीकरणीया धनं च एकस्मै दातव्यम्” इति ।

एवम् अनपेक्षितरीत्या घटितस्य विषये अयं न्यायः प्रवर्तते ।

"https://sa.wikiquote.org/w/index.php?title=दग्धपदमार्जालन्यायः&oldid=10539" इत्यस्माद् प्रतिप्राप्तम्