दर्पणप्रतिविम्बन्यायः ।

यथा दर्पणे सर्ववस्तूनां प्रतिबिम्बनं भवति तथैव ब्रह्मतत्त्वे जगतः सर्ववस्तूनां प्रतिबिम्बनं भवति । जगत् एतत् ब्रह्मणः प्रतिबिम्बनं भवति । अयमेव प्रतिबिम्बवाद् इति प्रसिद्धः वेदान्तशास्त्रस्य सिद्धान्तः । सुरेश्वराचार्यस्य शब्देषु अयम् एवं वर्णितः- अन्तरस्मिन्निमे लोका अन्तर्विश्वमिदं जगत् ।

बहिर्वन्मायया भाति दर्पणे प्रतिबिम्बवत् ॥