दातव्यं भोक्तव्यं सति...


सुभाषितम्

दातव्यं भोक्तव्यं सति विभवे संचयो न कार्यः ।
पश्य मधुकराणां सञ्चितमर्थं हरन्त्यन्ये ॥

dātavyaṃ bhoktavyaṃ sati vibhave saṃcayo na kāryaḥ ।
paśya madhukarāṇāṃ sañcitamarthaṃ harantyanye ॥

पदच्छेदः

दातव्यं, भोक्तव्यं, सति, विभवे, संचयः, न, कार्यः, पश्य, मधुकराणां, सञ्चितम्, अर्थं, हरन्ति, अन्ये ।


तात्पर्यम्

यत्किमपि वस्तु यदि अस्मत्सविधे विद्यते तर्हि तत् अस्माभिः उपयोक्तव्यम् अथवा अन्येभ्यः वा दातव्यम् अनावश्यकरूपेण सञ्चयः न करणीयः । मधुकराः बहुभ्यः पुष्पेभ्यः मधुनः सङ्ग्रहणं कुर्वन्ति स्वस्य उपयोगाय न । अन्ये आगत्य तद् हरन्ति ।


आङ्ग्लार्थः

If some material in our possession is either capable of being gifted or of being consumed, it is better not to hoard them. Eat them, enjoy them or give them voluntarily to others who can use them. See, the honeybees collect their honey from so many flowers toiling all along, but store the honey without having the mind to taste them.. But what happens..? Someone else just snatch away all the honey along with the honey combs..