दातव्यमिति यद्दानं...
सुभाषितम्
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे।
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम्॥
भगवद्गीता १७.२०
dātavyamiti yaddānaṃ dīyate'nupakāriṇe।
deśe kāle ca pātre ca taddānaṃ sāttvikaṃ smṛtam॥
पदच्छेदः
दातव्यम्, इति, यद्, दानं, दीयते, अनुपकारिणे, देशे, काले, च, पात्रे, च, तद्, दानं, सात्त्विकं, स्मृतम्॥
तात्पर्यम्
योग्ये प्रदेशे योग्ये च काले उपकारम् अकृतवते च शमादिगुणसम्पन्नाय पुरुषाय दातव्यम् इति बुद्ध्या यत् दानं क्रियते तत् सात्त्विकम् इत्युच्यते ।
आङ्ग्लार्थः
That gift which is given to one who does nothing in return, knowing it to be a duty to give in a fit place and time to a worthy person, that gift is held to be Sattvic.