दाददो दुदददुददाद...
चित्रकाव्यम्
दाददो दुद्-ददुद्-दादी दाददो दूददीददोः ।
दुद्दादं दददे दुद्दे दादाददददोऽददः ॥
वैशिष्ट्यम्
अस्मिन् श्लोके द इत्येतत् वर्णमात्रम् उपयुक्तम् ।
अर्थः
सर्वविधानां वराणां प्रदाता, दुर्मतीनां निग्रहीता, लोकपावनः, परपीडकानां निग्रहणे समर्थाभ्यां बाहुभ्यां युक्तः श्रीकृष्णः स्वीयं मर्मभेदकं बाणं शत्रून् प्रति प्रयुक्तवान् ।