सुभाषितम्

दानं प्रियवाक्सहितं ज्ञानमगर्वं क्षमान्वितं शौर्यम् ।
वित्तं त्यागनियुक्तं दुर्लभमेतत् चतुष्टयं लोके ॥

हितोपदेशः - कथा ४

dānaṃ priyavāksahitaṃ jñānamagarvaṃ kṣamānvitaṃ śauryam ।
vittaṃ tyāganiyuktaṃ durlabhametat catuṣṭayaṃ loke ॥

पदच्छेदः

दानं, प्रियवाक्सहितं, ज्ञानमगर्वं, क्षमान्वितं, शौर्यम्, वित्तं, त्यागनियुक्तं, दुर्लभम्, एतत्, चतुष्टयं, लोके ॥


तात्पर्यम्

उत्तमैः वचनैः युक्तं दानं, गर्वरहितं ज्ञानं, क्षमायुतं शौर्यं, त्यागेन युक्ता सम्पत्तिः - एते चत्वारः लोके विरलतया दृश्यन्ते ।


आङ्ग्लार्थः

Persons endowed with these four qualities, namely speaking politely while giving wealth as charity, not being proud of being knowledgeable, forgiving in nature in spite of being valorous, and wealthy but also very charitable and detached from their wealth, are very rare in this World.

"https://sa.wikiquote.org/w/index.php?title=दानं_प्रियवाक्सहितं...&oldid=18117" इत्यस्माद् प्रतिप्राप्तम्