दिवान्धः नाम उलूकः । सः दिवा द्रष्टुं न शक्नोति । सर्वैः आदरेण स्वीकृतः सूर्यप्रकाशः उलूकेन तिरस्कृतः भवति । एवं स्वस्य असामर्थ्यकारणेन कोऽपि उत्तमगुणम् अपि तिरस्करोति चेत् तादृशप्रसङ्गे अस्य प्रयोगः भवति ।

"https://sa.wikiquote.org/w/index.php?title=दिवान्धन्यायः&oldid=15937" इत्यस्माद् प्रतिप्राप्तम्