दूर्वा इति तृणविशेषः तस्य मूलं भूखण्डस्य अन्तः व्याप्य तिष्ठति बहिः न दृश्यते । वृष्टिः यदा भवति तदा भूमौ वर्तमानं तत् मूलं सहसा प्ररोहति । एवं बहिः अदृश्यमानाः गुणाः प्रेरणं प्राप्य उद्बुद्धाः भूत्वा प्रकाशन्ते इति अस्य भावः ।

"https://sa.wikiquote.org/w/index.php?title=दूर्वामूलन्यायः&oldid=10525" इत्यस्माद् प्रतिप्राप्तम्