दृष्टिपूतं न्यसेत्पादं...

सुभाषितम्

दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम् ।
शास्त्रपूतं वदेद्वाक्यं मनःपूतं समाचरेत् ॥

चाणक्यनीतिः १०-२

dṛṣṭipūtaṃ nyasetpādaṃ vastrapūtaṃ pibejjalam ।
śāstrapūtaṃ vadedvākyaṃ manaḥpūtaṃ samācaret ॥

पदच्छेदः

दृष्टिपूतं, न्यसेत्, पादं, वस्त्रपूतं, पिबेत्, जलम्, शास्त्रपूतं, वदेत्, वाक्यं, मनःपूतं, समाचरेत् ॥


तात्पर्यम्

नेत्राभ्यां सम्यक् दृष्ट्वा पदं स्थापनीयम् । वस्त्रेण संशोध्य जलं पातव्यम् । शास्त्रज्ञानेन परीक्ष्य एव वक्तव्यम्। मनसा अङ्गीकृतं कार्यमेव करणीयम् ।


आङ्ग्लार्थः

Clear the path through sight; filter drinking water through a cloth; purify speech through knowledge of scriptures; cleanse actions through thought.