प्रजापतिः बह्मा इदं जगत् असृजत् । प्रजापतेः रात्रिसमये इदं जगत् अव्याकृते अज्ञाने लीयते । प्रजापतेः दिवससमये तत् पुनः आविर्भवति । एवं अस्माकम् अज्ञानेन कल्पितं जगत् सुषुप्तौ अज्ञाने लीयते व्युत्थाने च आविर्भवति इति दृष्टिसृष्टिवादस्य भावः अनेन बोध्यते । यथा –

एवं दृष्टिसृष्टिन्यायेन अस्मत्कल्पितोऽयं वियदादिप्रपञ्चः । अस्मत्सुषुप्तौ लीयते अस्मत्प्रबोधे च यथापूर्वं प्रादुर्भवति । (सा. ९१८)

"https://sa.wikiquote.org/w/index.php?title=दृष्टिसृष्टिन्यायः&oldid=10524" इत्यस्माद् प्रतिप्राप्तम्