देवताधिकरणन्यायः
श्रुतिवाक्यानि मूर्तिबोधकानि उपासनापराणि इति केषाञ्चन विदुषां मतम् । वस्तुतः मूर्तिरुपं विग्रहरुपं वा केवलम् आरोपितम् एव । आरोपितस्य अपि तस्य उपासना फलं साधयितुं क्षमते । अतः ईश्वरस्य मूलविग्रहकल्पना तर्कशुद्धा नास्ति इति केनचिदुच्यते तर्हि उत्तरम् एवम् अस्ति यत् कानिचन श्रुतिवाक्यानि उपासनापराणि भवन्ति चेदपि अविरोधे देवताधिकरणन्यायेन अर्थसिद्धिः भवति इति अनेन
बोध्यते ।