देवदत्तहन्तृहतन्यायः

देवदत्तः केनापि हतः । किञ्चित्कालानन्तरं देवदत्तस्य हन्ता पुरुषः अन्येन हतः । देवदत्तस्य हन्तरि हते अपि देवदत्तः पुनर्जीवति किम् ?

यथा – नहि अन्यस्य अन्यसिद्धत्वाद् अन्यस्य प्रादुर्भावो भवति । न हि देवदत्तस्य हन्तरि हते देवदत्तस्य प्रादुर्भावो भवति । पतञ्जलिमहाभाष्ये १-१-५७