देववाणीं वेदवाणीं...


देववाणीं वेदवाणीं मातरं वन्दामहे ।
चिरनवीनां चिरपुराणीं सादरं वन्दामहे ॥

दिव्यसंस्कृतिरक्षणार्थं तत्परा भुवने भ्रमन्तः
लोकजागरणाय सिद्धाः सङ्घटनमन्त्रं जपन्तः ।
कृतिपरा लक्ष्यैकनिष्ठा भारतं सेवामहे ॥

भेदभावनिवारणार्थं बन्धुतामनुभावयेम
कर्मणा मनसा च वचसा मातृवन्दनमाचरेम
कीर्तिधनपदकामनाभिर्विरहिता मोदामहे ॥

संस्कृतेर्विमुखं समाजं जीवनेन शिक्षयेम
मनुकुलादर्शं सम्न्तात् पालयित्वा दर्शयेम
जीवनं संस्कृतहितार्थं स्वार्पितं मन्यामहे

वयमसाध्यं लक्ष्यमेतत्संस्कृतेन साधयन्तः
त्यागधैर्यसमर्पणेन नवलमितिहासं लिखन्तः
जन्मभूमिसमर्चनार्थं सर्वतः स्पन्दामहे ॥

भारताः सोदराः सर्वे भावमेतं हृदि विदधतः
वयं संस्कृतसाधका इह सज्जता नैजं विधाय
परमवैभवसाधनार्थं वरमहो याचामहे




"https://sa.wikiquote.org/w/index.php?title=देववाणीं_वेदवाणीं...&oldid=17724" इत्यस्माद् प्रतिप्राप्तम्