द्राविडप्राणायामन्यायः

द्राविडादेशस्थाः प्राणायामकरणसमये सरलरीत्या नासिकां न स्पृशन्ति किन्तु शिरसः पृष्ठतः हस्तं प्रसार्य अपरपार्श्वतः नासिकां स्पृशन्ति इति प्रवादः । एवं सरलमार्गे स्थिते कठिनमार्गस्य अवलम्बनं सूचयितुम् अस्य प्रयोगो भवति ।