द्विषतां पात्वंहसः ॥ (ऋग्वेदः १०-१६४-४) सम्पाद्यताम्

द्वेष-पापेभ्यः अस्मान् रक्षतु ।

अस्माकं नाशकाः शत्रवः कुत्र सन्ति ? सामान्यतः बहिः अन्विष्यामः ! किन्तु अस्माकं शत्रवः अस्मासु एव विद्यन्ते !! अस्मदुपरि एतेषाम् आक्रमणं कदा कथं भवति इत्येव न ज्ञायते !!! तेषु शत्रुषु इदं द्वयं विद्यते । अप्रीतिः एव द्वेषः । आत्मनः अधःपातनमेव पापम् ! एतद् द्वयमपि आत्मनः शक्तिं विनाशयन्ति । सकलजीवराशेः विषये हृत्पूर्विका प्रीतिः आत्मबलं वर्धयति । सुहृदां विषये प्रीतिः सहजा एव । अस्मान् शत्रवः इति ये भावयन्ति तेषां विषये प्रीतिः कष्टसाध्या इति भासते चेदपि तस्य साधनेन आत्मबलं वर्धते । धनस्य, अधिकारस्य, इन्द्रियभोगस्य च प्राप्तये कस्यचित् मार्गस्य अनुसरणं सुलभसाध्यम् । किन्तु एतेषां प्राप्त्यर्थं पारदर्शकस्य निष्कपटस्य च मार्गस्य अनुसरणं भवति कष्टसाध्यम् । किन्तु आत्मशक्तेः तन्नाम आनन्दस्य वर्धनं

तत्रैव भवति !

"https://sa.wikiquote.org/w/index.php?title=द्विषतां_पात्वंहसः_॥&oldid=1461" इत्यस्माद् प्रतिप्राप्तम्