द्वे वाव ब्रह्मणो रूपे मूर्तं चैव अमूर्तं च । - बृहदारण्यकोपनिषत् २-३-१

कल्पिते द्वे रूपे ब्रह्मणः विद्येते, ते एव मूर्तम् अमूर्तं चेति ।

परब्रह्म नाम समस्तस्यापि जगतः मूलकारणं परिपूर्णतत्त्वम् । ब्रह्मणः कार्यमेव इदं विश्वं नाम ।
ब्रह्मणः रूपमेव अयं प्रपञ्चः । ब्रह्मणः विकार एव इदं ब्रह्माण्डम् । अयं प्रपञ्चः मूर्तम् अमूर्तमिति
द्वेधा विभज्यते । मूर्तं नाम इन्द्रियैः ग्राह्याणि शब्दस्पर्शरूपरसगन्धात्मकानि वस्तूनि । अमूर्तं नाम
प्रमाणैः अगृह्यमाणं नामरूपरहितम् अव्याकृतं तत्त्वम् ॥

इमे मूर्तामूर्ते, क्षराक्षरे, व्यक्ताव्यक्ते, कार्यकारणे, स्थूलसूक्ष्मे, मर्त्यामृते, व्याकृताव्याकृते च इत्यादिशब्दैः
कथ्येते । निरूपाधिकस्य ब्रह्मणः एते द्वे अपि अविद्याकृते सोपाधिके रूपे भवतः । व्याकृताव्याकृते द्वे अपि
परस्य ब्रह्मणः रूपे एव । परमार्थतस्तु परस्मात् ब्रह्मणः भिन्नतया व्याकृतं वा अव्याकृतं वा नैव विद्यते । परं च
ब्रह्म स्वरूपतः न व्याकृतं न च अव्याकृतम् । उभयातीतमेव परं ब्रह्म ॥

"https://sa.wikiquote.org/w/index.php?title=द्वे_वाव_ब्रह्मणो...&oldid=16494" इत्यस्माद् प्रतिप्राप्तम्